|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.183. अध्यायः 183
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति दानादिप्रशंसापरव्यासमैत्रेयसंवादानुवादः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूर्वकः।
अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः॥ 13-183-1(88696)
असंशयं महाप्राज्ञ यथैवात्थ तथैव तत्।
अनुज्ञातश्च भवता किञ्चिद्ब्रूयामहं विभो॥ 13-183-2(88697)
व्यास उवाच। 13-183-3x(7398)
यद्यदिच्छसि मैत्रेय यावद्यावद्यथायथा।
ब्रूहि तत्वं महाप्राज्ञ शुश्रुषे वचनं तव॥ 13-183-3(88698)
मैत्रेय उवाच। 13-183-4x(7399)
निर्दोषं निर्मलं चैव वचनं सत्यसंहितम्।
विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः॥ 13-183-4(88699)
भवतो भावितात्मत्वाल्लाभोऽयं सुमहान्मम।
भूयो बुद्ध्याऽनुपश्यामि सुसमृद्धतपा इव॥ 13-183-5(88700)
अपि मे दर्शनादेव भवतोऽभ्युदयो महान्।
मन्ये भवत्प्रसादोऽयं बुद्धिकर्मस्वभावतः॥ 13-183-6(88701)
तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम्।
त्रिभिर्गुणैः समुदितः स्नातो भवति वै द्विजः॥ 13-183-7(88702)
अस्मिंस्तृप्ते च तृप्यन्ति पितरो दैवतानि च।
न हि श्रुतवतां किञ्चिदधिकं ब्राह्मणादृते॥ 13-183-8(88703)
`असंस्कारात्क्षत्रवैश्यौ नश्येते ब्राह्मणादृते।
शूद्रो नश्यत्यशुश्रूषुराश्रमाणां यथार्हतः॥' 13-183-9(88704)
[अन्धं स्यात्तम एवेदं न प्रज्ञायेत किञ्चन।
चातुर्वर्ण्यं न वर्तेत धर्माधर्मावृतानृते॥] 13-183-10(88705)
यथाहि सुकृते क्षेत्रे फलं विन्दति मानवः।
एवं दत्त्वा श्रुतवते फलं दाता समश्नुते॥ 13-183-11(88706)
ब्राह्मणश्चेन्न विन्देत श्रुतवृत्तोपसंहितः।
प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम्॥ 13-183-12(88707)
अन्नं ह्यविद्वान्हन्त्येवमविद्वांसं च हन्ति तत्।
तच्चान्यं हन्ति यच्चान्यत्स भुक्त्वा हन्यतेऽबुधः॥ 13-183-13(88708)
प्राहुर्ह्यन्नमदन्विद्वान्पुनर्जनयतीश्वरः।
स चान्नाज्जायते तस्मात्सूक्ष्म एष व्यतिक्रमः॥ 13-183-14(88709)
`ब्राह्मं ह्यनुपयोगी यो ददंश्चान्नमसंशयम्।
यस्तारयति वै विद्वान्पितॄन्देवान्सदाऽमृतान्' 13-183-15(88710)
यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः।
न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः॥ 13-183-16(88711)
यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः।
तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते॥ 13-183-17(88712)
ये योनिशुद्धाः सततं तपस्यभिरता भृशम्।
दानाध्ययनसम्पन्नास्ते वै पूज्यतमाः सदा॥ 13-183-18(88713)
तैर्हि सद्भिः कृतः पन्था देवयानो न मुह्यते।
ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः॥ ॥ 13-183-19(88714)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्र्यशीत्यधिकशततमोऽध्यायः॥ 183 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-183-7 श्रुतं शास्त्रज्ञानम्। 7-183-8 ब्राह्मणादृते इदमन्धन्तम एव स्याद्यतो वर्णधर्मादिकं तेन विना न प्रज्ञायेतेति सम्बन्धः॥ 7-183-14 ईश्वरत्वाच्च क्षेत्रभूतः सन् पुनर्जनयति दात्रे अनेकगुणितं प्रयच्छतीत्यर्थः। सच दातुरन्नाज्जायते प्रजारूपेण। गृहस्थश्चेत्तत्र यस्यान्नं तस्य सन्ततिरिति सूक्ष्मो व्यतिक्रमोऽस्ति। तेन गृहस्थः परपाकं नाश्नीयादिति गम्यते॥ 7-183-15 प्रतिग्रहीत्रभावे अन्नस्य वृद्धिर्न स्यात्। वद्ध्यभावे दातुर्दाने प्रवृत्तिर्न स्यादिति दातृप्रतिग्रहीतारौ चक्रवल्लोकतन्त्रं वहत इत्यर्थः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|